वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।


वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम्।
अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम ॥

संस्कृतानुवादः

अन्वयः विग्रहवाक्यानि च

वन्दे इति क्रियापदम् । गणेशमिति योजना । कथंभूतस्सः ।
वन्दारुमन्दारः - वन्दारूणां मन्दारः वन्दनशीलजनानां स्वर्वृक्ष इवेति यावत् । तेषां कामनाप्रदातृत्वात् ।
इन्दुभूषणः शिवः तस्य नन्दनः इन्दुभूषणनन्दनः । शिवपुत्र इति यावत् ।
अमन्दानन्दसन्दोहबन्धुरः - अमन्दः तीव्रः आनन्दस्य सन्दोहः आनन्दसन्दोहः
अमन्दश्चासावानन्दसन्दोहश्चेति अमन्दानन्दसन्दोहः अमन्दानन्दसन्दोहेन बन्धुरः अमन्दानन्दसन्दोहबन्धुरः ।
तीव्रानन्दसमूहादुन्नतानत इति यावत् ।
बन्धुरन्तून्नतानतमित्यभिधानात् । यद्यपि भगवतः स्वात्मारामत्वात्संसारविषयानासक्तत्वोन्नतत्वं तथापि भक्तानां कृते सुलभत्वानतत्वमिति भावः ।
सिन्धुराननः - सिन्धुरस्याननमेवाननं यस्य ।

भावार्थः

वन्दनशीलजनानां कामप्रदं शिवपुत्रं तीव्रानन्दसमूहादुन्नतानतं सिन्धुरस्याननमेवाननं वन्दे ।



हिन्दी अनुवाद

गणेश की वन्दना करता हूं । कैसै गणेश?
वन्दारुमन्दारः - वन्दन करनेवाले जनों के कामनाओं को स्वर्गवृक्ष मन्दार कि तरह पूर्ति करनेवाले ।
इन्दुभूषणनन्दनः - चन्द्रभूषण शिव के पुत्र ।
अमन्दानन्दसन्दोहबन्धुरः - तीव्रानन्दसमूह से ऊंचे होते हुए भी झुके हुए । भगवान कि कृपालुता को ध्वनित करता है यह शब्द यद्यपि भगवान स्वात्माराम हैं और संसार से उनका कोई लेना देना नहीं (उन्नतता) फिर भी वह भक्त सुलभ है (झुकाव) ।
सिन्धुराननः - हाथी के मुख वाले ।

भावार्थ

गणेश की वन्दना करता हूं जो वन्दन करनेवाले जनों के कामना पूर्ति करनेवाले हैं, चन्द्रभूषण शिव के पुत्र हैं, तीव्रानन्दसमूह से ऊंचे होते हुए भी झुके हुए हैं और जो हाथी के मुख वाले है ।



ಕನ್ನಡಾನುವಾದ

ಗಣೇಶನನ್ನು ವಂದಿಸುತ್ತೇನೆ. ಎಂತಹ ಗಣೇಶ?
ವಂದಾರುಮಂದಾರಃ - ವಂದಿಸುವಂತಹ ಜನರಿಗೆ ಕಾಮನೆಗಳನ್ನು ಪೂರೈಸುವ ಸ್ವರ್ಗದ ಮಂದಾರ ವೃಕ್ಷದಂತಿರುವವನು.
ಇಂದುಭೂಷಣನನ್ದನಃ - ಚಂದ್ರವನ್ನು ಭೂಷಣದಂತೆ ಧರಿಸಿರುವ ಶಿವನ ಮಗ.
ಅಮನ್ದಾನನ್ದಸನ್ದೋಹಬನ್ಧುರಃ - ತೀವ್ರವಾದ ಆನನ್ದಸಮೂಹದ ಅನುಭವದಿಂದ ಉನ್ನತವಾಗಿದ್ದರೂ ಬಾಗಿರುವವನು. ಭಗವಂತನ ಕೃಪಾಲುತೆಯನ್ನು ಧ್ವನಿಯ ಮೂಲಕ ಇಲ್ಲಿ ಸೂಚಿಸಲ್ಪಟ್ಟಿದೆ. ಭಗವಂತ ಸ್ವಾತ್ಮಾರಾಮ. ಅವನಿಗೆ ಜಗತ್ತಿನ ಯಾವ ವಿಷಯದಲ್ಲೂ ಪಡೆಯಬೇಕಾದದ್ದು ಏನೂ ಇಲ್ಲ (ಉನ್ನತತ್ವ) ಹೀಗಿರುವಾಗಲೂ ಭಕ್ತರ ಮೇಲಣ ತೀವ್ರ ಕೃಪೆಯ ಕಾರಣ ಭಕ್ತನಿಗೆ ಎಟುಕುವಂತಾಗುತ್ತಾನೆ (ಬಾಗುವಿಕೆ)
ಸಿನ್ಧುರಾನನಃ - ಆನೆಯ ಮುಖವುಳ್ಳವನು.

ಭಾವಾರ್ಥ

ವಂದಿಸುವಂತಹ ಜನರಿಗೆ ಕಾಮನೆಗಳನ್ನು ಪೂರೈಸುವ ಸ್ವರ್ಗದ ಮಂದಾರ ವೃಕ್ಷದಂತಿರುವ ಚಂದ್ರವನ್ನು ಭೂಷಣದಂತೆ ಧರಿಸಿರುವ ಶಿವನ ಮಗನಾದ ತೀವ್ರವಾದ ಆನಂದಾನುಭವದಿಂದ ಉನ್ನತವಾಗಿದ್ದರೂ ಬಾಗಿರುವ ಆನೆಯ ಮುಖವುಳ್ಳ ಗಣೇಶನನ್ನು ವಂದಿಸುತ್ತೇನೆ.


English meaning

I bow down to Gaṇeśa, what is his nature?
वन्दारुमन्दारः - the one who fulfils the desires of those bowing down to him. (Mandāra is one of the trees of svarga).
इन्दुभूषणनन्दनः - son of Śiva who has moon for an ornament.
अमन्दानन्दसन्दोहबन्धुरः - The one who is bowed down inspite of being tall due to his intense Ānanda. This word suggests the great kṛpaa of bhagavān. Although he has nothing to gain or lose from the world (tallness), he descends to the level of the bhakta (bowing down).
सिन्धुराननः - Elephant faced.

Purport

I bow down to Gaṇeśa who is as though a wish fulfilling tree of heaven for those who now down to him, is the son of Śiva (lit. the one with the moon ornament), who, although high due to intense Ānanda, is bowed down to help his devotees and is elephant-faced.

Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2